|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.156. अध्यायः 156
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति बलिदीपप्रदानकथनोपयोगितया नहुषचरितकथनारम्भः॥ 1 ॥ देवैर्वरदानपूर्वकमिन्द्रपदं प्रापितेन नहुषेण पर्पात्सप्तर्ष्यादिभिः पर्यायेण स्वयानवाहनम्॥ 2 ॥ अगस्त्यस्य तद्यानवहनपर्याये भृगुणाऽगस्त्यंप्रति स्वेन नहुषस्याधःपातनप्रतिज्ञानम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्।
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि॥ 13-156-1(87411)
धूपप्रदानस्य फलं प्रदीपस्य तथैव च।
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः॥ 13-156-2(87412)
भीष्म उवाच। 13-156-3x(7315)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नहुषस्य च संवादमगस्त्यस्य भृगोस्तता॥ 13-156-3(87413)
नहुषो हि महाराज राजर्षिः सुमहातपाः।
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा॥ 13-156-4(87414)
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्।
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः॥ 13-156-5(87415)
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः।
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः॥ 13-156-6(87416)
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च॥ 13-156-7(87417)
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः।
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः॥ 13-156-8(87418)
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः।
सर्वानेव यथान्यायं यथापूर्वमरिंदम॥ 13-156-9(87419)
अथेनद्रोऽहमिति ज्ञात्वा अहङ्कारं समाविशत्।
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः॥ 13-156-10(87420)
सप्तर्षीन्वाहयामास वरदानदमान्वितः।
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान्॥ 13-156-11(87421)
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्।
अहङ्काराभिभूतस्य सुमहानत्यवर्तत॥ 13-156-12(87422)
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे।
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत॥ 13-156-13(87423)
अथागत्य महातेजा भृगुर्ब्रह्मविदांवरः।
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्॥ 13-156-14(87424)
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः।
नहुषस्य किमर्थं वै मर्षयाम महामुने॥ 13-156-15(87425)
अगस्त्य उवाच। 13-156-16x(7316)
कथमेष मया शक्यः शप्तुं यस्य महामुने।
वरदेन वरो दत्तो भवतो विदितश्च सः॥ 13-156-16(87426)
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति।
इत्यनेन वरं देवो याचितो गच्छता दिवम्॥ 13-156-17(87427)
एवं न दग्धः स मया भवता च न संशयः।
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः॥ 13-156-18(87428)
अमृतं चैव पानाय दत्तमस्मै पुरा विभो।
महात्मना तदर्तं च नास्माभिर्विनिपात्यते॥ 13-156-19(87429)
प्रायच्छत वरं देवः प्रजानां दुःखकारणम्।
द्विजेष्वधर्मयुक्तानि स करोति नराधमः॥ 13-156-20(87430)
तत्र यत्प्राप्तकालं नस्तद्ब्रू वदतांवर।
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः॥ 13-156-21(87431)
भृगुरुवाच। 13-156-22x(7317)
पितामहनियोगेन भवन्तं सोऽहमागतः।
प्रतिकर्तुं बलवति नहुषे दर्पमोहिते॥ 13-156-22(87432)
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्।
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा॥ 13-156-23(87433)
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्।
सञ्चाल्य पापकर्माणमैन्द्रात्स्थानात्सुदुर्मतिम्। 13-156-24(87434)
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति।
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः॥ 13-156-25(87435)
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्।
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम्॥ 13-156-26(87436)
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्।
धरण्यां पातयिष्यामि पश्यतस्ते महामुने॥ 13-156-27(87437)
नहुषं पापकर्माणमैश्वर्यबलमोहितम्।
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने॥ 13-156-28(87438)
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः।
अगस्त्यः परमप्रीतो बभूव विगतज्वरः॥ ॥ 13-156-29(87439)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-156-7 लाजाभिः। आर्षं स्त्रीत्वम्॥ 7-156-10 अथेन्द्रस्य भविष्यत्वादहङ्कारः समाविशत् इति ध.पाठः॥ 7-156-18 न शप्तो विनिपातिन इति थ.ध.पाठः॥ 7-156-26 शपिष्ये पापमोहितमिति थ.ध.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|